श्री दुर्गा कवच का पाठ || devi kawach hindi lyrics

श्री दुर्गा कवच का पाठ लिरिक्स हिन्दी (devi kawach Lyrics) यहाँ – श्री दुर्गा कवच, का पाठ devi kavach hindi Lyrics, दिया गया है- ॥ अथ श्री देव्याः कवचम् ॥ ॐ अस्य श्रीचण्डीकवचस्यब्रह्मा ऋषिः अनुष्टुप् छन्दः, चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्,दिग्बन्धदेवतास्तत्त्वम्, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेनजपे विनियोगः। ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ यद्गुह्यं परमं लोकेसर्वरक्षाकरं नृणाम्। यन्न कस्यचिदाख्यातंतन्मे ब्रूहि पितामह॥1॥ ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्। देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥2॥ प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी। तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥3॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च। सप्तमं कालरात्रीति महागौरीति चाष्टमम्॥4॥ नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः। उक्तान्येतानि नामानि ब्रह्मणैव महात्मना॥5॥ अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे। विषमे दुर्गमे चैव...